सामग्री पर जाएँ

भीष्मपञ्चक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीष्मपञ्चकम्, क्ली, (भीष्मेण कृतमुपदिष्ठं वा पञ्चकं एकादश्यादिपूर्णिमान्तपञ्चतिथिकर्त्तव्यम् ।) कार्त्तिकशुक्लपक्षीयैकादश्यादिपूर्णिमान्तपञ्च- तिथिकर्त्तव्यव्रतविशेषः । यथा, -- श्रीनारद उवाच । “भगवन् ! यत् त्वया प्रोक्तं भीष्मस्य च दिनं महत् । माहात्म्यं श्रोतुमिच्छामि तस्य मे कथय प्रभो ! ॥ कथं स्नानञ्च किं दानं को विधिः कस्य पूजनम् । किं फलं केन वाकारि तन्मे कथय विस्तरात् ॥” ब्रह्मोवाच । तद्भीष्मपञ्चकस्येदं माहात्म्यं विधिपूर्ब्बकम् । वक्ष्यामि फलसंयुक्तं येनेदञ्च कृतं पुरा ॥ अयोध्या नगरी या च कलिकल्मषनाशिनी । वैष्णवी स्वर्गरम्या च कलिकल्मषनाशिनी ॥ हस्त्यश्वरथपत्त्याठ्या विष्णुचक्रप्रतिष्ठिता । तस्यामासीन्नरवरः सूर्य्यवंशोद्भवो मुने ! ॥ अतिथिर्नाम देवर्षे ! धर्म्मात्मा नैकयज्ञकृत् । तेन दत्तं पुरा राज्ञा कृतं यज्ञमनूत्तमम् ॥ भार्य्यया चन्द्रभाविन्या सार्द्ध्वं भीष्मस्य पञ्चकम् । चिकीर्षः परिपप्रच्छ वशिष्ठं तद्विधिं द्बिज ! ॥” अपि च । “सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने । चातुर्म्मास्ये ततस्तस्मात् कार्त्तिके भीष्मपञ्चकम् ॥ ततः श्रेष्ठतमं शुक्ल एकादश्यां समाचरेत् । स्नायात्त्रिकालं पित्रादीन् यवाद्यैरर्च्चयेद्धरिम् ॥ यजेन्मौनी घृताद्यैस्तु पञ्चगव्येन वारिभिः । स्नापयित्वाथ कर्पू रमुखैश्चैवानुलेपयेत् ॥ घृताक्तगुग्गुलोर्धूपं द्विजः पञ्चदिनं दहेत् । नैवेद्यं परमान्नन्तु जपेदष्टोत्तरं शतम् ॥ ओ~ नमो वासुदेवाय घृतव्रीहितिलोदकम् । षडक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ प्रथमेऽह्नि हरेः पादौ यजेत् पद्मैर्द्वितीयके । विल्वपत्रैर्जानुदेशं नाभिं भृङ्गेण चापरे ॥ स्कन्धौ विल्वैर्जवाभिश्च पञ्चमेऽह्नि शिरोऽर्च्चयेत् । मालत्या भूमिशायी स्याद्गोमयं प्राशयेत् क्रमात् ॥ गोमूत्रक्षीरदधि च पञ्चमे पञ्चगव्यकम् । नक्तं कुर्य्यात् पञ्चदश्यां व्रती स्याद्भुक्तिमुक्ति- भाक् ॥” इति गारुडे भीष्मपञ्चादिव्रतं नाम १२३ अध्यायः ॥ वकपञ्चकम् । यथा, -- “आरभ्यैकादशीं पञ्च दिनानि व्रतमाचरेत् । भगवत् प्रीतये भीष्मषञ्चकं यदि शक्रुयात् ॥ तथा धात्रीव्रतं पौर्णमास्यां कुर्व्वीत कार्त्तिके । तथा नवम्वां शुक्लायामक्षयं नवमीव्रतम् ॥ पैतामहादिकृच्छ्राणि मासोपोषणमेव च । समर्थः कार्त्तिके कुर्य्यात् ज्ञात्वा पाद्मादितो विधिम् ॥” इदि श्रीहरिभक्तिविलासे १६ विलासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीष्मपञ्चक¦ न॰ भीष्मेण प्राप्तमुपदिष्टं वा पञ्चकम्। कार्त्तिक-शुक्लेकादश्यादिषु

१ पञ्चसु तिथिषु तत्कर्त्तव्ये

२ व्रतभेदेच। तन्निरुक्तिर्यथा
“भीष्मेणैतत् पुरा प्राप्तं व्रतं पञ्चदिनात्मकम्। सकाशात् वासुदेवस्य तेनोक्तं भीष्मपञ्च-कम्” हेमा॰ व्र॰ नारदपु॰। पञ्चात् तेन च पाण्डवायोपदिष्टं यथोक्तं तत्रैव
“इदं भीष्मेण धर्म्यञ्च शरतल्पगतेनच। तदेवात्र समाख्यातं दुष्करं भीष्मपञ्चकम्”। तत्का-लश्च तथोक्तो यथा
“कार्त्तिकस्य शुभे पक्षे स्यात्तुसम्यगयतव्रतः। एकादश्यान्तु गृह्णीयात् व्रतं पञ्चदिनात्मकम्”। तत्रैव तद्विधानं दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीष्मपञ्चक/ भीष्म--पञ्चक n. " five days sacred to -Bh भीष्म" , the 5 days from the 11th to the 15th in the light half of the month कार्त्तिकAgP.

"https://sa.wiktionary.org/w/index.php?title=भीष्मपञ्चक&oldid=300731" इत्यस्माद् प्रतिप्राप्तम्