सामग्री पर जाएँ

भीष्मरत्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भीष्मरत्नम्, क्ली, (भीष्मं भयानकं रत्नं दुर्लभत्वात् ।) हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः । तस्योत्पत्त्यादि यथा, -- सूत उवाच । “हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः । हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः । भीष्ममणिं ग्रीवादिषु स सम्पदं सर्व्वदा लभते ॥ गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! । विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले ॥” विषमानाबाधन्ते ये तमरण्यनिवासिनः समी- पेऽपि । द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः ॥ तस्योत्कवलितकृतिनो भवन्ति भयं न चापि समुपस्थितम् । भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः । पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥ शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक- विषाणि । सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् । मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः ॥ मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् । दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥” इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः ॥

"https://sa.wiktionary.org/w/index.php?title=भीष्मरत्न&oldid=154491" इत्यस्माद् प्रतिप्राप्तम्