सामग्री पर जाएँ

भुक्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भुक्तम्, त्रि, (भुज् + कर्म्मणि क्तः ।) भक्षितम् । इत्यमरः । ३ । २ । ११ ॥ (यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्ज्जञ्च यच्छति । अपूजितन्तु तद्भुक्तमुभयं नाशयेदिदम् ॥” उपभुक्तम् । यथा, रघुः । ४ । ७ । “मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्ब्बेव तस्मिन्नासीद्वसुन्धरा ॥” भावे क्तः ।) भक्षणे, क्ली । इति त्रिकाण्डशेषः ॥ (यथा, रामायणे । २ । ५८ । १२ । “आसितं शयितं भुक्तं सूत ! रामस्य कीर्त्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥”)

"https://sa.wiktionary.org/w/index.php?title=भुक्तम्&oldid=154497" इत्यस्माद् प्रतिप्राप्तम्