भुग्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुग्नः, त्रि, (भुज मोटने + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) रोगा- दिना कुटिलीकृतः । तत्पर्य्यायः । रुग्नः २ । इत्यमरः । ३ । १ । ९१ ॥ वक्रः । इति भुज- धात्वर्थदर्शनात् । (यथा, -- “साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिकापार्श्वमूर्द्ध्वपर्व्वास्थिरुग्भ्रमः ॥” इति वाभटे निदानस्थाने द्वितीयेऽध्याये ॥ यथा, च भट्टिः । ११ । ८ । “पीने भटस्योरसि वीक्ष्य भुग्नां स्तनुत्वचः पाणिरुहान् सुभध्या ॥”)
