सामग्री पर जाएँ

भुजिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भुजिः, पुं, (भुनक्ति भुङ्क्ते वा सर्व्वानिति । भुज + “भुजेः किच्च ।” उणा० ४ । १४१ । इति इः । स च कित् । सर्व्वभक्षकत्वादस्य तथा- त्वम् ।) वह्निः । इत्युणादिकोषः ॥ (भुज + भावे इः । भोगः । यथा, ऋग्वेदे । ८ । ९१ । ६ । “आसवं सवितुर्यथा भगस्येव भुजिं हुवे । अग्निं समुद्रवाससम् ॥” “सवितुः प्रेरकस्य देवस्य सवं यथा प्रसवमिव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्र वाससमग्निं आहुवे आह्वयामि ।” इति तद्भाष्ये सायनः ॥ * ॥ भोक्तरि, त्रि । यथा, ॠग्वेदे । ८ । ८ । २ । “भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥” “हे भुजी हविषां भोक्तारौ ।” इति तद्भाष्ये सायनः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भुजिः [bhujiḥ], Fire. -(dual) Ved. The two Aśvins, or eaters of oblations.

"https://sa.wiktionary.org/w/index.php?title=भुजिः&oldid=301584" इत्यस्माद् प्रतिप्राप्तम्