भुजिष्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुजिष्यः, पुं, (भुङ्क्ते स्वाम्युच्छिष्टमिति भुज्यते इति वा भुज + “रुचिभुजिभ्यां किष्यन् ।” उणा० ४ । १७८ । इति किष्यन् ।) स्वतन्त्रः । हस्तसूत्रम् । दासः । इति मेदिनी । ये, ९८ ॥ (यथा, माधे । १५ । ६३ । “किमहो नृपाः समममीभि- रुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥”) रोगः । इति संक्षिप्तसारोणादिवृत्तिः ॥
