भुरिक्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुरिक्, [ज्] स्त्री, (भरति सर्व्वं धरतीति । भृञ् + “भृञ उच्च ।” उणा० २ । ७२ । इति इजिः । धातोरुकारान्तादेशः ।) पृथिवी । इत्युणादिकोषः ॥ (द्विवचनान्तत्वे । बाहू । द्यावापृथिव्यौ च । यथा, ऋग्वेदे । ४ । २ । १४ । “रथं न क्रन्तो अपसा भुरिजो रृतं येमुः सुध्य आशुषाणाः ॥” “भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान् वेति भुरिजौ बाहू तयोः । यद्वा, भुरिजोः देवान् मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।” इति तद्भाष्ये सायनः ॥)
