सामग्री पर जाएँ

भुवनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भुवनम्, क्ली, (भवन्त्यस्मिन् भूतानीति । भू + “भूसू- धूभ्रस्जिभ्यश्छन्दसि ।” उणा० २ । ८० । इत्यत्र बहुलवचनाद्भाषायामपि प्रयुज्यते ।” इत्युज्ज्वल- दत्तोक्त्या क्युन् ।) जगत् । (यथा, भट्टिः । १ । १ । “गुणैर्व्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥”) सलिलम् । गगनम् । जनः । इति मेदिनी । ने, १०२ ॥ चतुर्द्दशभुवनानि यथा, -- “चतुर्द्दशविधं ह्येतद् भूतसर्गं प्रकीर्त्तितम् । भूर्भुवः स्वर्महश्चैव जनश्च तप एव च ॥ सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः । जम्बूः शाकः कुशः क्रौञ्चः शाल्मलो मेदपुष्करः । सप्तद्वीपाः प्रधानानि ह्युपद्वीपैस्तु संयुताः ॥ लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः । सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् । चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः स्मृताः ॥ उत्तराः कुरवो रम्यं वर्षं हैमवतं तथा । भद्राश्वं केतुमालञ्च तथा वषमिलावृतम् ॥ भारतं हरिवर्षञ्च तथा किंपुरुषावृतम् । एतान्यष्टौ तु वर्षाणि पुण्यानि कथितानि तु ॥ इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् । नागवीथी तथा सौम्यो गन्धर्व्वो वारुणस्तथा ॥ सागराख्यस्तु नवमो भेदभारतवार्षिकः । इदन्तु भारतं वर्षं कर्म्मभूमिरिति स्मृतम् ॥ शेषाणि द्वीपवर्षाणि भोगस्थानानि सन्त्यपि । भागीरथी पावनी च ह्रदिनी ह्रादिनी तथा ॥ सीता वंक्षुश्च सिन्धुश्च सप्त गङ्गाः प्रकीर्त्तिताः । सुप्रभा काञ्चनी चैव विशाला सुमनोह्रदाः ॥ सरस्वत्योघनादा च सुवेणुर्विमलोदका । एता गङ्गास्तु विख्याताः सप्त पुण्यप्रदाः शुभाः ॥ हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः । श्वेतश्च शृङ्गवान्मेरुर्माल्यवान् गन्धमादनः ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥ लोकालोको महांस्तेषु तथैवोत्तरमानसः । एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥ अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥ पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् । शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥” इति वह्निपुराणम् ॥ (भूतजातम् । यथा, ऋग्वेदे । १ । १५७ । ५ । “युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवने- ष्वन्तः ।” तथा च वाजसनेयसंहितायाम् । ९ । ५ । “यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म्म साविषत् ॥” * ॥ भावनम् । यथा, ऋग्वेदे । १० । ८८ । १ । “तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्यधया पप्रथन्त ॥” * ॥ पुं, मुनिविशेषः । यथा, महा- भारते । १३ । २६ । ८ । “नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भुवनम् [bhuvanam], [भवत्यत्र, भू-आधारादौ-क्थुन्]

A world, the number of worlds is either three, as in त्रिभुवन or fourteen; इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते Bh.3.23 (see लोक also); cf. also अतलं सुतलं चैव वितलं च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि । पातालानां च सप्तानां लोकानां च यदन्तरम् । सुशिरं तानि कथ्यन्ते भुवनानि चतुर्दश ॥ Vahni. P.; भुवनालोकनप्रीतिः Ku.2.45; भुवनविदितम् Me.6.

The earth.

Heaven.

A being, living creature.

Man, mankind.

Water; पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् N.21.64.

The number 'fourteen'.

Abode, residence (Ved.).

Becoming prosperous.-Comp. -अद्भुत a. astonishing the world. -ईशः a lord of the earth, king.

ईश्वरः a king.

N. of Śiva.-ईश्वरी N. of various goddesses. ˚पूजायन्त्रम् N. of a mystical diagram. -ओकस् m. a god. -कोशः the receptacle of beings. -तलम् the surface of the earth.-त्रयम् the three worlds (the earth, atmosphere, and heaven; or heaven, earth, and lower regions). -पावनी an epithet of the Ganges. -भावनः the creator of the world. -भर्तृ m. the supporter of the earth. -शासिन्m. a king, ruler. -हितम् the welfare of the world.

"https://sa.wiktionary.org/w/index.php?title=भुवनम्&oldid=301962" इत्यस्माद् प्रतिप्राप्तम्