भुवर्लोकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुवर्लोकः, पुं, (भुवश्चासौ लोकश्चेति ।) भूरादि- सप्तलोकान्तर्गतद्वितीयलोकः । यथा, -- “भूमिसूर्य्यान्तरं यच्च सिद्धादिसुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ! ॥” इति विष्णुपुराणे । २ अंशे ७ अध्यायः ॥ (यथा च भागवते । २ । ५ । ८ । “भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्ल्लोको महात्मनः ॥”)
