सामग्री पर जाएँ

भूकम्पः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूकम्पः, पुं, (भुवः पृथिव्याः कम्पः ।) भूमि- कम्पनम् । स च अद्भुतविशेषः । यथा, अद्भुतसागरे । “मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः कथ्यते चापे मीनकुलीरभे च वृषभे सत्यं चलेत् कच्छपः । यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नग- स्तेषामेकतमो यदि प्रचलति क्षौणी तदा कम्पते ॥ “कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे । सर्व्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे ॥ प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः । क्षुद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि ॥ त्रिचतुर्थपञ्चमदिने मासे पक्षे त्रिपक्षके । भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते ॥” स च भूमिजोत्पातविशेषः । यथा, -- “चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् । जलाशयानां वैकृत्यं भौमन्तदपि कीर्त्तितम् ॥ भौमं जाप्यफलं ज्ञेयं चिरेण परिपच्यते ।” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=भूकम्पः&oldid=154580" इत्यस्माद् प्रतिप्राप्तम्