सामग्री पर जाएँ

भूतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतः, पुं, (भू + कर्त्तरि क्तः ।) देवयोनिविशेषः । स च अधोमुस्वोर्द्ध्वमुखादिः पिशाचभेदो रुद्रा- नुचरो बालग्रहः । इत्यमरभरतौ ॥ (यथा, मार्कण्डेयपुराणे । ५१ । ५३ । “विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्त्तयेत् । भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”) कुमारः । इति मेदिनी । ते, ४१ ॥ योगीन्द्रः । इति शब्दरत्नावली ॥ कृष्णचतुर्द्दशी । इति त्रिकाण्डशेषः ॥ * ॥ भूतनाशकौषधम् । यथा, “श्वेतापराजितामूलं पिष्टं तण्डलवारिणा । तेन नस्यप्रदानं स्याद्भूतबृन्दस्य विद्रवम् ॥ अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् । भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः । गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥ गोरोचना मरीचानि पिप्पली सैन्धवं मधु । अञ्जनं कृतमेभिः स्याद् ग्रहभूतहरं शिव ! ॥ अपि च । “वचा त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥ प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ॥ नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥” इति गारुडे १९२ । १९९ अध्यायः ॥ शम्भुगणभूता यथा, -- “हते वराहस्य गणे भर्गमासाद्य ते गणाः । चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥ भूतत्वमभवत्तेषां चतुर्भागवतां तदा । वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥ यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्विधः । यतस्तेभ्योऽधिका यत्नैस्तद्भूतग्राम उच्यते ॥ इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।” इति कालिकापुराणे २९ अध्यायः ॥ (वसुदेवस्य पौरवीगर्भजातद्बादशपुत्त्राणां ज्येष्ठ- तमः । यथा, भागवते । ९ । २४ । ४७ । “पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=भूतः&oldid=154611" इत्यस्माद् प्रतिप्राप्तम्