सामग्री पर जाएँ

भूतकला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतकला¦ स्त्री

६ त॰। शा॰ ति॰ उक्ते धरादिभूतानामुत्-पादके निवृत्त्याद्ये शक्तिभेदे
“धरादिपञ्चभूतानां निवृ-त्त्याद्याः कलाः स्मृताः। निवृत्तिः सुप्रतिष्ठा स्यात् विद्याशान्तिरनन्तरन्तरम्। शान्त्यतीतेति ता ज्ञेया नाददेह-समुद्भवाः” शा॰ ति॰
“शक्तिः प्रथमसम्भूता शान्त्य-तीतापदोत्तरा शान्त्यतीतापदाच्छक्तेस्ततः शान्तिपदंक्रमात्। ततो विद्यापदं तस्मात् प्रतिष्ठापदसंग्रहः। निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः परम्। एवमुक्ता स-वासेन सृष्टिरीश्वरनोदिता। आनुलोम्यादथैतेषां प्राति-लोम्वेन संहृतिः। अस्मात् पञ्चपदोद्दिष्टान्न सृष्ट्यन्तर-मिष्यते। कलाभिः पञ्चभिर्व्याप्तं यस्माद्विश्वमिदं जगत्” राघवभट्टधृतवायवीयसंहिता।

"https://sa.wiktionary.org/w/index.php?title=भूतकला&oldid=503257" इत्यस्माद् प्रतिप्राप्तम्