भूतघ्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूतघ्नः, पुं, (भूतं हन्तीति । हन् + टक् ।) उष्ट्रः । इति हेमचन्द्रः ॥ लशुनः । भूर्जवृक्षः । इति राजनिर्घण्टः ॥ भूतनाशके त्रि ॥ (यथा, तन्त्रसारे । “भूतघ्नैस्तु विकीणैस्तैर्विद्रुताः क्रूरचेतसः । भूतप्रेतपिशाचाश्च वेताला भैरवादयः ॥”)
