सामग्री पर जाएँ

भूतचतुर्द्दशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतचतुर्द्दशी, स्त्री, (भूतप्रिया भूतोद्देशे क्रियां कर्त्तव्या वा चतुर्द्दशी । मध्यपदलोपी समासः ।) गौणकार्त्तिककृष्णचतुर्द्दशी । सा एव यमचतु- र्द्दशी । तत्कृत्यं यथा, पाद्मे । “चतुर्द्दश्यां धर्म्मराजपूजा कार्य्या प्रयत्नतः । स्नानमावश्यकं कार्य्यं नरैर्नरकभीरुभिः ॥ अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः । तस्याब्दिकभवो धर्म्मो नश्यत्येव न संशयः ॥” स्कान्दे च तत्रैव । “कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां विधूदये । अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः ॥ किञ्च पाद्मे तत्रैव । “ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः । जीवत्पिता न कुर्वीत तर्पणं यमभीष्मयोः ॥ यज्ञोपवीतिना कार्य्यं प्राचीनावीतिना तथा ॥ देवत्वञ्च पितृत्वञ्च यमस्यास्ते द्बिरूपता ॥ नक्तं यमचतुर्द्दश्यां यः कुर्य्याच्छिवसन्निधौ । न तत् क्रतुशतेनापि प्राप्यते पुण्यमीदृशम् ॥ कुमारीवटुकान् पूज्य तथा शैवतपोधनान् । राजसूयफलं तेन प्राप्यते नात्र संशयः ॥ कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्द्दशी । तस्यां भूतेशमभ्यर्च्य गच्छेच्छिवपुरं नरः ॥ किञ्च । अमावास्याश्चतुद्दश्याः प्रदोषे दीपदानतः । वममार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः ॥” इति श्रीहरिभक्तिविलासः ॥ अपि च । लैङ्गे । “कार्त्तिके कृष्णपक्षे च चतुर्द्दश्यां दिनोदये । अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः ॥ अपामार्गपल्लवञ्च भ्रामयेच्छिरसोपरि । ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ॥ नरकाय प्रदातव्यो दीपः संपूज्य देवताः । नरकाय नरकनिवृत्तये । अर्थोऽभिधेयो वै वस्तु प्रयोजननिवृत्तिषु ॥ इति निवृत्तावपि तादर्थ्य इत्यनेन चतुर्थीविधा- नात् । अपामार्गभ्रामणमन्त्रः । शीतलोष्णसमायुक्तसकण्टकदलान्वित । हर पापमपामार्ग ! भ्राम्यमाणः पुनः पुनः ॥ ततः प्रदोषसमये दीपान् दद्यात् प्रयत्नतः । ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ॥ भविष्ये । कार्त्तिके भौमवारे च चित्रा कृष्णचतुर्द्दशी । तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवम् ॥ यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् । यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥ यमाय धर्म्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥ ओडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ एकैकस्य तिलैर्मिश्रांस्त्रीस्तु दद्याज्जलाञ्ज- लीन् । सम्बत्सरकृतं पापं तत्क्षणादेव नश्यति ॥” आचारादत्रचतुर्द्दशशाकभक्षणं कर्त्तव्यम् । तत्र निर्णयामृतम् । “ओलं केमुकवास्तुकं सरषपं कालञ्च निम्बं जयां शालिञ्चीं हिलमोचिकाञ्च पटुकं शौल्फं गुडूचीन्तथा । भण्टाकीं शुनिषण्णकं शिवदिने खादन्ति ये मानवाः प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते तिथौ ॥” जयां जयन्तीं पटुकं पटोलं शौल्फं शुल्फा इति ख्यातम् । शुनिषण्णकं शुषणिया इति ख्यातम् । इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=भूतचतुर्द्दशी&oldid=154621" इत्यस्माद् प्रतिप्राप्तम्