भूतमण्डल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूतमण्डल¦ न॰
६ त॰। शा॰ ति॰ उक्ते पृथिव्यादीनां मण्डल-भेदे तत्स्वरूपं तत्रोक्तं यथा
“वृत्तं दिवस्तत् षड्विन्दु-लाञ्छितं भातरिश्वनः। त्रिलोणं स्वस्तिकोपेतं वह्ने-रर्द्धेन्दुसंयुतम्। अम्भोभमम्भसो भूमेश्चतुरस्यं सवज्र-कम्। तत्तद्भूतकमानानि मण्डमानि विदुर्बुधाः। वर्णेः[Page4686-a+ 38] खैरञ्जितान्याहुः स्वस्यनामावृतान्यपि”।
“वर्णैः श्वेतादिभि-र्भूतवर्णैरजोभिरञ्जितानीति पदार्थादर्शः। तत्रैतद्व्याख्याविस्तरेण दृश्या। मन्त्रमहोदधौ तेषां स्पष्टं स्वरूपंकर्मविशेषे विनियोगश्चोक्तो यथा
“अर्द्धचन्द्रनिभं पार्श्वद्वयेपद्मद्वया{??}तम्। जलस्य मण्डलं प्रोक्तं प्रशस्तं शान्तिकर्मणि। त्रिकोणं स्वस्तिकोपेतं वश्ये वह्नेस्तु मण्ड-लम्। चतुरस्रं वज्रयुक्तं स्तम्भे भूमेस्तु मण्डलम्। वृत्तं दिवस्तु विद्वेषे विन्दु षट्काङ्कितं तु तत्। वायु-मण्डलमुच्चाटे मारणे वह्निमण्डलम्”।
