भूतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूतम्, क्ली, (भू + क्तः ।) युक्तम् । न्यायः । क्ष्मादिः । पृथिव्यप्तेजोवाय्वाकाशपञ्चकम् । (यथा, मनुः । १२ । १४ । “तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ॥ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥” “स च त्रिविधो वैकारिकस्तैजसो भूतादिरिति । भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चत- न्मात्राण्युत्पद्यन्ते । तद्यथा । शब्दतन्मात्रं स्पर्श- तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र- मिति । तेषां विशेषाः शब्दस्पर्शरूपरसगन्धा- स्तेभ्यो भूतानि व्योमानिलानलजलोर्व्व्यः ।” इति सुश्रुते शारीरस्थाने प्रथमेऽध्याये ।) ऋतम् । सत्यम् । इत्यमरभरतौ ॥ पिशाचादि । (यथा, श्रीभागवते । ३ । १४ । २१ । “एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥”) जन्तुः । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा, मनुः । ६ । ८ । “स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समा- हितः । दाता नित्यमनादाता सर्व्वभूतानुकम्पकः ॥” स्थावरजङ्गमात्मकं द्रव्यम् । यथा, मनुः । ८ । ३०६ । “रक्षन् धर्म्मेण भूतानि राजा वध्यांश्च घात- यन् ! यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥”) वस्तुतत्त्वम् । यथा, -- “छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ छलं प्रमादाभिहितम् । निरस्य परित्यज्य । भूतेन वस्तुतत्त्वानुसरणेन । व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्त- मनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कर्त्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायै- स्तथा सति साक्ष्यादिनैरपेक्षेणैव निर्णयो भव- तीति ॥ अथ सर्व्वथापि भूतानुसरणं न शक्यते कर्त्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य्य- इत्यनुकल्पः । यथोक्तम् । भूतच्छलानुसारि- त्वाद्विगतिः समुदाहृता । भूतन्तत्त्वार्थयुक्तं यत् प्रमादाभिहितं छलमिति ॥ तत्र भूतानुसारी व्यवहारो मुख्यः । छलानुसारी त्वनुकल्पः । इति मिताक्षरायां व्यवहाराध्यायः ॥
भूतम्, त्रि, (भाव्यते स्मेति । “आधृषाद्बेति णिज- भावः । भू + क्तः । भूतिरस्त्यस्येति वा । अर्श- आदित्वात् अच् । अभवदिति वा । भुवो गत्यर्थे इति । भूतार्थे कर्त्तरि क्तः ।) प्राणी । जन्तुः । (यथा, ऋग्वेदे । ३ । २७ । ९ । “धिया चक्रे वरेण्यो भूतानां गर्भमादधे ॥” यथा च चरके शारीरस्थाने तृतीयेऽध्याये ॥ “भूतानाञ्चतुर्व्विधा योनिर्जराय्वण्डस्वेदोद्भिदः ।”) अतीतम् । (यथा, कथासरित्सागरे । १ । २४ । “भूतं भवद् भविष्यद् वा किं तत् स्यात् जगति प्रिये । भवती यन्न जानीयादिति शर्व्वोऽप्युवाच ताम् ॥”) वृत्तम् । (यथा, सुश्रुते चिकित्सितस्थाने । १० अध्याये । “गोशकृद्भूतानां वा यवानां शक्तून् कार- यित्वा ॥”) समम् । सदृशम् । इत्यमरभरतौ ॥ प्राप्तम् । (यथा, महाभारते । १३ । ३४ । १५ । “यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वैवचः । भूतात्मानो महात्मानस्ते न यान्ति परा- भवम् ॥” “भूतः प्राप्तो वशीकृत आत्मा चित्तं यैस्ते ॥” इति तट्टीकायां नीलकण्ठः ।) सत्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा शाकु- न्तले । प्रथमाङ्के । “सूत्रधारः । सस्मितम् । आर्य्ये ! कथयामि ते भूतार्थम् ।”) भूतकालस्य पर्य्यायो यथा । वृत्तम् २ अतीतम् ३ ह्यस्तनम् ४ निभृतम् ५ गतम् ६ । इति राजनिर्घण्टः ॥ उत्तरपदस्थ एव भूतशब्दः समार्थ इति शाब्दिकाः । यथा देवभूतोऽयम् । इति भरतः ॥ (उत्तरपदस्थ भूतशब्दः स्वरूपार्थोऽपि । यथा, मनुः । १ । ५ । “आसीदिदं तमोभूतमप्रज्ञातमलज्ञणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥”)
