सामग्री पर जाएँ

भूतयज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतयज्ञः, पुं, (भूतार्थो यज्ञः । भूतानि काकादि- प्राणिजातानि तान्युद्दिश्य यो यज्ञ इति वा नित्यं गार्हस्थ्यकरणीय पञ्चयज्ञेषु यज्ञभेदः ।) भूतबलिः । ते तु पञ्चमहायज्ञान्तर्गतबलिवैश्व- देवकर्म्मणी । यथा, भूतेभ्यो बलिहरणं भूत- यज्ञः । इति हारीतसूत्रम् ॥ अस्यानुष्ठानं बलिशब्दे द्रष्टव्यम् । (यथा, मनुः । ४ । २१ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा । नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=भूतयज्ञः&oldid=154644" इत्यस्माद् प्रतिप्राप्तम्