सामग्री पर जाएँ

भूतशुद्धिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतशुद्धिः, स्त्री, (भूतानां देहारम्भ कपृथिव्यादि पञ्चभूतानां शुद्धिः शोधनम् ।) पूजादौ बीज- विशेषद्वारावामकुक्षिस्थितपापपुरुषदहनपूर्ब्बक- शरीरशोधनम् । तत्प्रयोगो यथा । रमिति जलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के डत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ॥ जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः । इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥ * संक्षेपभूतशुद्धिर्यथा । पुरश्चरणचन्द्रिकायाम् । “अथवान्यप्रकारेण भूतशुद्धिर्विधीयते । धर्म्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ॥ ऐश्वर्य्याष्टदलोपेतं परं वैराग्यकर्णिकम् । स्वीयहृत्कमले ध्यायेत् प्रणवेन विकासितम् ॥ कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् । जीवात्मानं हृदि ध्यात्वा मूले सञ्चिन्त्य कुण्डलीम् । सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥” इति तन्त्रसारः ॥

"https://sa.wiktionary.org/w/index.php?title=भूतशुद्धिः&oldid=154653" इत्यस्माद् प्रतिप्राप्तम्