भूतसर्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूतसर्गः, पुं, (सृज्यते इति । सृज + भावे घञ् । भूतानां सर्गः ।) भूतसृष्टिः । (यथा, मार्कण्डेय- पुराणे । ४७ । ३१ । “प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गः म उच्यते ॥”) “ब्राह्मं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च । गान्धर्व्वमथ कौवेरं रक्षःपैशाचमानुषम् ॥ स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा । चतुर्द्दशविधं ह्येतद्भूतसर्गं प्रकीर्त्तितम् ॥” इति वह्निपुराणोक्तं क्लीवत्वमार्षम् ॥
