भूतात्मा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूतात्मा, [न्] पुं, (भूतानामात्मा ।) देहः । (यथा, मनुसंहितायाम् । १२ । १२ । “यः करोति तु कर्म्माणि स भूतात्मोच्यते बुधैः ॥” “यः पुनरेष व्यापारान् करोति शरीराख्यः स पृथिव्यादिभूतारब्धत्वात् भूतात्मेति पण्डितै- रुच्यते ॥” इति तट्टीकायां कुल्लूकभट्टः ॥) परमेष्ठी । इति मेदिनी । ने, २०० ॥ शिवः । युद्धम् । इति शब्दरत्नावली ॥ विष्णुः । यथा, “भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः ॥” इति महाभारते दानधर्म्मः ॥ (जीवात्मा । यथा, मनुसंहितायाम् । ५ । १०९ । “अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥” यथा च चरके शारीरस्थाने प्रथमेऽध्याये । तस्मिंश्चरमसंन्यासे समूलाः सर्व्ववेदनाः । समज्ञा ज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः ॥ अतःपरं ब्रह्मभूतो भूतात्मा नोपलभ्यते । निःसृतः सर्प्पभावेभ्यश्चिह्नं यस्य न विद्यते ॥ गतिब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम् । ज्ञानं ब्रह्मविदाञ्चात्र नाज्ञस्तज्ज्ञातुमर्ह- तीति ॥”)
