सामग्री पर जाएँ

भूतावासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतावासः, पुं, (भूतानामावासः) विभीतकवृक्षः । इति राजनिर्घण्टः ॥ विष्णुः । यथा, -- “भूतावासो वासुदेवः सर्व्वासुनिलयो लयः ॥” इति महाभारते दानधर्म्मः ॥ (शरीरम् । यथा, मनुसंहितायाम् । ६ । ७७ । “जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥” शाखोटः । तत्पर्य्यायो यथा, -- “शाखोटः पीतकनको भूतावासः खरच्छदः ॥” इति भावप्रकाशस्य पूर्ब्बेखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=भूतावासः&oldid=154675" इत्यस्माद् प्रतिप्राप्तम्