सामग्री पर जाएँ

भूताविष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूताविष्टः, त्रि, (भूतेन आविष्टः) पिशाचग्रस्तः । तन्नाशकचक्रम् यथा, -- “पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्धक्रमेण हि । पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम् ॥ नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा । द्वितीयेऽष्टावष्ठमे षट् दिशि द्बौ षौडशे श्रुतिः ॥ एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके । तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः ॥ दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्म्मसु । द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम् ॥ भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् । द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि ॥ विषे विंशो धान्यकीटेष्वष्टाविंशतिरेव च । चतुरष्टौ च बालानां रोदने परिकीर्त्तिताः ॥” इति ज्योतिस्तत्त्वम् ॥ १ ८ १८ २३ २० २१ ३ ६ ७ २ २४ १७ २२ १९ ५ ४ ५० ५० ५० ५०

भूताविष्टः, त्रि, (भूतेन आविष्टः ।) भूतक्रान्तः । भूतादिना रोगग्रस्तः । (यथा, -- “भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।” इत्यादि ज्योतिस्तत्त्वम् ॥ भूतविशेषाणामावेश- समयाः । यथा, -- “देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि । गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥ कृष्णपक्षे च पितरः पञ्चम्यामपि चोरगाः । रक्षांसि निशि पैशाचाश्चतुर्द्दश्यां विशन्ति च ॥ दर्पणादीन् यथाच्छाया शीतोष्णं प्राणिनो यथा । स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहभृत् ॥ विशन्ति च न दृश्यन्ते ग्रहस्तद्वच्छरीरिणम् ।” इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूताविष्ट¦ त्रि॰ भूतेनाविष्टः। पिशाचग्रस्ते
“भूताविष्टेषुपञ्चाशत् मृतापत्यासु वै शतम्” ज्यो॰ त॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूताविष्ट¦ mfn. (-ष्टः-ष्टा-ष्ट) Occupied or possessed by a devil. E. भूत a spirit, आविष्ट entered.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूताविष्ट/ भूता mfn. possessed by evil spirits Lalit.

"https://sa.wiktionary.org/w/index.php?title=भूताविष्ट&oldid=303530" इत्यस्माद् प्रतिप्राप्तम्