सामग्री पर जाएँ

भूतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूतिः, स्त्री, (भवत्यनयेति । भू + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तिच् ।) महादेवस्य अणिमाद्यष्टप्रकारवैभवम् । इत्य- मरः । १ । १ । ३८ ॥ शम्भुधृतभस्म । इत्यमर- टीकायां भरतः ॥ भस्म ॥ (यथा, शिशुपाल- वधे । १ । ४ । “क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥”) सम्पत्तिः । (उत्तरोत्तरवृद्धिः । यथा, भगवद्- गीतायाम् । १८ । ७४ । “यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥”) हस्तिशृङ्गारः । इति मेदिनी ते, ४० ॥ (हस्ति- शृङ्गारोऽत्र गजमण्डनम् । यथा, मेघदूते । १९ । “रेवां द्रक्ष्यस्यपलविषमे बिन्ध्यपादे विशीर्णाम् । भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥”) जातिः । इति विश्वः ॥ (पितृगणभेदः । यथा, मार्कण्डेयपुराणे । ९६ । ४३ । “विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः । भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव ॥” लक्ष्मीः । यथा, भागवते । ४ । १ । ४ । “यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥” भूतेर्लक्ष्म्याः । इति तट्टीकायां श्रीधरस्वामी ॥) वृद्धिनामौषधम् । रोहिषतृणम् । भूतृणम् । इति राजनिर्घण्टः ॥ (भवनमिति । भू + क्तिन्) उत्पत्तिः । सत्ता । इति भूघातोर्भावे क्तिप्रत्य- वेन निष्पन्नम् ॥

"https://sa.wiktionary.org/w/index.php?title=भूतिः&oldid=154681" इत्यस्माद् प्रतिप्राप्तम्