सामग्री पर जाएँ

भूधरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूधरः, पुं, (धरतीति । धृ + पचाद्यच् । भुवां धरः इति षष्ठीसमासः ।) पर्व्वतः । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । ५७ । ११ । “तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥”) यन्त्रभेदः । यथा, -- “जलकच्छपपातालदोलाभूधरबालुकाः । वकाद्या यन्त्रभेदाः स्युर्वज्रान्ध्राद्याश्च मूषकाः ॥” इति शब्दचन्द्रिका ॥ (यथाचास्य व्यवहारः । “द्विपलं शुद्धसूतस्य सूतार्द्धं गन्धकन्तथा । कन्यानीरेण संमर्द्द्य दिनमेकं निरन्तरम् ॥ रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटे ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥ शिवः । यथा, महाभारते । १३ । १४ । १५१ । “भूधरो नागमौञ्जी च नागकुण्डलकुण्डली ॥” कृष्णः । यथा, भागवते । ३ । १३ । ४० । “दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर ! भूः सभूधरा । यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥”)

"https://sa.wiktionary.org/w/index.php?title=भूधरः&oldid=154712" इत्यस्माद् प्रतिप्राप्तम्