सामग्री पर जाएँ

भूमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूमा, [न्] पुं, बहुत्वम् । यथा । “भूयोभूम- भूयिष्ठाः ।” बहोरीयस्विमन् इष्ठान्तस्य एते निपात्यन्ते । इति मुग्धबोधव्याकरणम् ॥ ईय- सोर्यस् ईयस्वादौ बहोर्भूरादेशः । ईयस्विन्नो- रादिलोपः । इष्ठे यकारागमश्च निपात्यन्ते । अतिशयेन बहुः भूयान् । बहोर्भावः भूमा । अतिशयेन बहुः भूयिष्ठः । इति तट्टीकायां दुर्गादासः ॥ बहुत्वविशिष्टः । तत्र वाच्यलिङ्गः । यथा । भूयः भूम । इति प्रभूतशब्दपर्य्याये अमरटीकायां रमानाथः ॥ * ॥ विराट्पुरुषः । यथा । “यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा यो भूमा तदमृतम् ।” इत्यादि श्रुतिभ्यो ब्रह्मनित्यत्वं सत्त्वशुद्धस्य प्रति- भाति । इति वेदान्तसारटीका ॥

"https://sa.wiktionary.org/w/index.php?title=भूमा&oldid=154745" इत्यस्माद् प्रतिप्राप्तम्