भूमिकम्प
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूमिकम्प¦ पु॰
६ त॰। क्षितिचलने तत्कारणादिकं सफलविशेषं वृ॰ स॰
३२ अ॰ उक्तं यथा
“क्षितिकम्पमाहुरेके वृहदन्तर्जलनिवासिसत्त्वकृतम्। भू-भारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये। अनिलो-ऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्येके। केचि-त्त्वदृष्टकारितमिदमन्ये प्राहुराचार्य्याः। गिरिभिःपुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च। आकम्पितापितामहमाहामरसदसि सव्रीडम्। भगवन्नाम ममैत॰त्त्वया कृतं यदचलेति तन्न तथा। क्रियतेऽचलैश्चलद्भिःशक्ताह नास्य खेदस्य। तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत्। साश्रुविलोचननमवलोक्यपितामहः प्राह। मन्युं हरेन्द्र! घात्र्याः क्षिपकुलिशं शैलपक्षभङ्गाय। शक्रः कृतमित्युक्त्वा मा भैरितिवसुमतीमाह। किन्त्वनिलदहनसुरपतिवरुणाः सदसत्-फलावबोधार्थम्। प्राग्द्वित्रिचतुर्भागेषु दिननिशोःकम्पविष्यन्ति। चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरोऽश्वयुक् चेति। मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात्। धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन्भौमम्। विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासीच। वायव्ये मकम्पे सस्याम्बुवनौषधीक्षयोऽभिहितः। श्वयथुश्वासोम्मादज्घरकासभवा वणिक्पीडा। रूपायुध-भृद्वैद्याः स्त्रीकविगान्धर्वपण्यशिल्पिजनाः। पीड्यन्तेसौराष्ट्रककुरुमगधदशार्णमत्स्याश्च। पुष्याग्नेषविशाखा-भरणीपित्र्याजभाग्यसञ्ज्ञानि। वर्गो हौतभुजोऽयंकरोति रूपाण्यथैतानि। तारोल्कापातावृतमादीप्त-मिवाम्वरं सदिग्दाहम्। विचरति मरुत्सहायःसप्तार्चिः सप्तदिवसान्तः। आग्नेयेऽम्बुदनाशः सलिला-शयसङ्क्षयो नृपतितैरम्। दद्रूविचर्चिकाज्वरविसर्पिकाःपाण्डरोगश्च। दीप्तौजलः प्रचण्डाः पीड्यन्ते चाश्म॰{??}बाह्लीकाः। तङ्गणकलिङ्गवङ्गद्रविडाः शवराश्चनैकविधाः। अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमै-त्राणि। सुरपथमण्डलमेतद्भवन्ति चास्य स्वरूपाणि। चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः। गव-चलिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः। ऐन्द्रं श्रुतिकुलजातिख्यातावनिपालगणपविध्वंसि। अ-[Page4690-b+ 38] तिसारगलग्रहवदनरोगकृच्छर्दिकोपाय। काशियुगन्धर-पौरवकिरातकीराभिसारबलभद्राः। अर्बुदसुबास्तुमा-लबपीडाकरमिष्टवृष्टिकरम्। पौष्णाप्यार्द्राश्लेषामूलाहि-र्बुध्न्यवरुणदैवानि। मण्डलमेतद्वारुणमस्यापि भवन्तिरूपाणि। नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणोवहुलाः। तडिदुद्भासितदेहा धाराङ्कुशबर्षिखो ज-लदाः। वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगत-वैरम्। गीनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति। षड्भिर्मासैः कम्पो द्वाम्यां पाकञ्च याति मिर्धातः। अन्यानप्युत्पातान् जगुरन्ये मण्डलैरेतैः। उल्काहरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः। वातोऽतिचण्डो ग्रहणं रवीत्द्वोर्नक्षत्रतारागणवैकृतानि। व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनग्नेर्विस्फुलिङ्गार्चिषोबा। वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकंदृश्यते वा। सन्ध्याविकाराः परिवेषखण्डा नद्यःप्रतीपा दिवि तूर्य्यनादाः। अन्यच्च यत् स्यात् प्रकृतेःप्रतीपं तत्मण्डलैरेव फलं निगाद्यम्। हन्त्यैन्द्रो वायव्यंवायुश्चात्यैन्द्रमेवमन्योऽन्यम्। वारुणहीतभुजावपि वेला-नक्षत्रजाः कम्पाः। पथितनरेश्वरमरणव्यसनान्याग्नेय-वायुमण्डलयोः। क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जना-श्चापि। वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयोलोके। गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः। पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात्। सद्यःफलति च वरुणो येषु न कालोऽद्भुतेषूक्तः। पलयतिपवनः शतद्वयं शतमनलो दशयोजनान्वितम्। सलिल-पतिरशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टिकम्। त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च। यदिभवति भूमिकम्पः प्रधाननृपनाशनो भवति। ” भूमिचलनादयोऽप्यत्र।
“निर्घाते भूमिचलने” म॰ त॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूमिकम्प/ भूमि--कम्प m. an earthquake Gaut. MBh. R. Var.
भूमिकम्प/ भूमि--कम्प m. N. of the 62nd AV.Paris3.
