सामग्री पर जाएँ

भूमिखर्ज्जूरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूमिखर्ज्जूरिका, स्त्री, (भूमिजाता खर्ज्जूरिका ।) क्षुद्रखर्ज्जूरी । तत्पर्य्यायः । स्वाद्वी २ दुरा- रोहा ३ मृदुच्छदा ४ । अस्या भेदाः गुणाश्च । “भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा । अथ स्कन्धफला काककर्क्कटी स्वादुमस्तका ॥ पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् । खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥ जायन्ते पञ्चिमे देशे सा च्छोहोरेति कीर्त्तिता ॥ खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः । स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ॥ तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम् । कोष्ठमारुतकृद्वल्यं वाह्यवातकफापहम् ॥ ज्वराभिघातक्षुत्तृष्णाकाशश्वासनिवारणम् । मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ॥ महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जूरिका स्मृता ॥ खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् । वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=भूमिखर्ज्जूरिका&oldid=154751" इत्यस्माद् प्रतिप्राप्तम्