भूमीरुहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूमीरुहः, पुं, (भूम्यां रोहतीति । रुह + कः ।) वृक्षः । यथा, -- “दीर्घास्तापयुता यथा विरहिणीश्वासास्तथा वासरा यामिन्यश्चपला यथा कुलबधूदृष्टिः सरोषा प्रिये ! । छाया वाञ्छ्यतमा नवोढवनितावाणीव भूमी- रुहा निष्पन्दाः सुचिराद्यथा मिलितयोर्यूनोर्मिथो दृष्टयः ॥” इत्युद्भटः श्लोकः ॥
