भूरिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भूरिः, पुं, (भवतीति । भू + “अदिशदिभूशुभिभ्यः ।” उणा० ४ । ६५ । इति क्रिन् ।) विष्णुः । ब्रह्मा । शिवः । इति मेदिनी । रे, ७३ ॥ वासवः । इति शब्दरत्नावली ॥ (सोमदत्तस्य पुत्रभेदः । यथा, महाभारते । १ । १८७ । १४ । “कौरव्यः सोमदत्तश्च पुत्त्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥”) प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे । ७ । ४ । २ । “संयोवनायुवते शुचिदन्भूरि चिदन्नासमिदत्ति सद्यः ॥”)
