सामग्री पर जाएँ

भूर्जः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूर्जः, पुं, (ऊर्ज + घञ् । भूः ऊर्जो बलं यस्य । भुवि ऊर्ज्जयते इति भू + ऊर्ज + अच् वा ।) स्वनामख्यातवृक्षविशेषः । भोजपत्र इति हिन्दी- भाषा । (यथा, रघौ । ४ । ७३ । “भूर्जेषु मर्म्मरीभूताः कीचकध्वनिहेतवः ।”) तत्प्रर्य्यायः । वल्कद्रुमः २ भुर्जः ३ सुचर्म्मा ४ भूर्जपत्रकः ५ चित्रत्वक् ६ बिन्दुपत्रः ७ रक्षा- पत्रः ८ विचित्रकः ९ भूतघ्नः १० मृदुमत्रः ११ शैलेन्द्रस्थः १२ । इति राजनिर्घण्टः ॥ भूर्ज- पत्रः १३ चर्म्मी १४ बहुलवल्कलः १५ । इति भावप्रकाशः ॥ छत्रपत्रः १६ शिवः १७ स्थिर- च्छदः १८ । इति रत्नमाला ॥ मृदुत्वक् १९ इत्यमरः । २ । ४ । ४६ । पत्रपुष्पकः २० । इति भरतधृतमधुः ॥ भुजः २१ बहुपटः २२ बहु- त्वक्कः २३ मृदुत्वचः २४ । इति भरतधृत- स्वामी ॥ अस्य गुणाः । बलकारित्वम् । कफ- रक्तनाशित्वञ्च । इति राजवल्लभः ॥ कटत्वम् । कषायत्वम् । उष्णत्वम् । भूतरक्षाकरत्वम् । त्रिदोषशमनत्वम् । पथ्यत्वम् । दुष्टकौटिल्य- नाशित्वञ्च । इति राजनिर्घण्टः ॥ कर्णरोग- पित्तराक्षसमेदविषहरत्वञ्च । इति भावप्रकाशः ॥ (यथा, वाभटे शरीरस्थाने प्रथमेऽध्याये ॥ “भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः । पृथक् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूर्जः [bhūrjḥ], The birch-tree; भूर्जगतो$क्षरविन्यासः V.2; Ku.1.7; 'भूर्जः कटुः कषायोष्णो भूतरक्षाकरः परः' Rājanighaṇṭu.

र्जम् A leaf made of birch-bark for writing on.

A written deed, document. -Comp. -कण्टकः a man of one of the mixed tribes, the offspring of an outcast Brāhmaṇa by a woman of the same class; व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः Ms.1.21. -पत्रः the birch-tree.

"https://sa.wiktionary.org/w/index.php?title=भूर्जः&oldid=305658" इत्यस्माद् प्रतिप्राप्तम्