सामग्री पर जाएँ

भूर्लोकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूर्लोकः, पुं, (भूःसंज्ञको लोकः । शाकपार्थिवादि- वत् समासः ।) अन्तरीक्षादधो लोकः । मर्त्य- लोकः । तस्य लक्षणं यथा, -- “पादगम्यञ्च यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तारोऽस्य मयो- दितः ॥” इति विष्णुपुराणे । २ अंशे ५ अध्यायः ॥ चरणसञ्चारयोग्यं गिरिशिखरादि यावत् ताव- दुत्सेधो भूर्लोक इत्यर्थः । विस्तारो मयोदितः सर्व्वतो लोकालोकावधिः पञ्चविंशतिकोटि- प्रमाणः । इति तट्टीकायां स्वामी ॥ अस्य विव- रणं तत्रैव द्वितीयादिचतुर्थाध्यायेषु भूगोल- शब्दे च द्रष्टव्यम् ॥ (यथा, भागवते । २ । ५ । ३८ । भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भूर्लोकः&oldid=154842" इत्यस्माद् प्रतिप्राप्तम्