सामग्री पर जाएँ

भूवदरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूवदरी, स्त्री, (भूलग्ना वदरी शाकपार्थिवादिवत् समासः ।) क्षुद्रकोली । झडवेर इति हिन्दी- भाषा । तत्पर्य्यायः । क्षितिवदरी २ वल्लीवदरी ३ वदरवल्ली ४ बहुफलिका ५ लघुवदरी ६ वदरफली ७ सूक्ष्मवदरी ८ । अस्या गुणाः । मधुराम्लत्वम् । कफवातविकारहारित्वम् । पथ्यत्वम् । दीपनत्वम् । पाचनत्वम् । किञ्चित् पित्तास्रकारित्वम् । रुच्यत्वञ्च । इति राज- निर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भूवदरी&oldid=154845" इत्यस्माद् प्रतिप्राप्तम्