सामग्री पर जाएँ

भूष्णुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूष्णुः, त्रि, (भू + ग्स्नु ।) भवनशीलः । तत्- पर्य्यायः । भविष्णुः २ भविता ३ । इत्यमरः । ३ । १ । २९ ॥ साधुभवनशीलः । इति तट्टीकायां रायमुकुटः ॥ (यथा, मनौ । ४ । १३५ । “क्षत्रियं चैव सर्पं च ब्राह्मणञ्च बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥” “भूष्णुः, धनायुरादिना वर्द्धनशीलः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

"https://sa.wiktionary.org/w/index.php?title=भूष्णुः&oldid=154858" इत्यस्माद् प्रतिप्राप्तम्