सामग्री पर जाएँ

भूस्तृणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भूस्तृणम्, क्ली, (भूलग्नं तृणं भुवस्तृणमिति वा । पारस्करादित्वात् सुट् ।) भूतृणम् । इत्यमरः । २ । ५ । १६७ ॥ (यथा, मनौ । ६ । १४ ॥ “वर्जयेन्मधुमांसञ्च भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥”) अस्य पर्य्यायगुणा यथा, -- “गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् । भूस्तृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥ भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनं लघु । विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम् । अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=भूस्तृणम्&oldid=154862" इत्यस्माद् प्रतिप्राप्तम्