भृगुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृगुः, पुं, (तपसा भृज्ज्यते पञ्चतपादिभिर्वेति । भ्रस्ज + “प्रथिम्रादिभ्रस्जां सम्प्रसारणं सलो- पश्च ।” उणा० १ । २९ । इति कुः सम्प्रसारणं सलोपः, न्यङ्कादित्वात् कुत्वञ्च । यद्वा भृज्जतीति क्विप् । भृक् ज्वाला तया सहोत्पन्न इति उः ।) मुनिविशेषः । स तु ब्रह्मणस्त्वचो जातः । (यथास्योत्पत्तिर्नामनिरुक्तिश्च महाभारते । १३ । ८५ । १०५ -- १०६ । “पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः । भृगित्येव भृगुः पूर्ब्बमङ्गरेभ्योऽङ्गिराभवत् ॥ अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् । सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद् भृगुः स्मृतः ॥”) अस्य भार्य्या कर्द्दममुनिकन्या ख्यातिः । पुत्त्रः धाता विधाता च । कन्या श्रीः । इति श्रीभाग- वतम् ॥ अपि च । मुनय ऊचुः । “कथितस्ते यदा सर्गः पृष्टः सूत त्वयाधुना । भृगुसर्गात् प्रभृत्येष सर्गो नः कथ्यतां पुनः ॥” सूत उवाच । भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्ब्बमुदधेः पुनः । तथा धाता विधाता च तस्यां जातौ भृगोः सुतौ ॥ आयतिर्नियतिश्चैव मेरुकन्ये महाप्रभोः । घातुर्विधातुस्ते भार्य्ये ययोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्य द्युतिमान् मुतः ॥ ततो वंशो मुनिश्रेष्ठा विस्तरं भार्गवो गतः । इत्याद्ये वह्निपुराणे वरसर्गनामाध्यायः ॥ * ॥ शिवः । शुक्रग्रहः । इति मेदिनी । गे, १५ ॥ सानुः । यमदग्निः । इति हेमचन्द्रः ॥ अरण्य- कण्टकव्याप्तगिरिपार्श्वोच्चदेशः । निरवलम्बन- पर्व्वतादिपार्श्वः । आरडि इति ख्यातम् । यस्मात् पतने अक्स्थानक्रियाविशेषो नास्ति । अतएव भृगुपतनमित्यादिप्रयोगो दृश्यते । इति भरतः ॥ तत्पर्य्यायः । प्रपातः २ अतटः ३ । इत्यमरः । २ । ३ । ४ ॥ दरद् ४ । इति जटाधरः ॥ पतनस्थानम् ५ । इति शब्दरत्नावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृगुः [bhṛguḥ], 1 N. of a sage, regarded as the ancestor of the family of the Bhṛigus, and described in Ms.1.35 as one of the ten patriarchs created by the first Manu; (said to be so called because he was produced along with flames; सह ज्वालाभिरुत्पन्ने भृगुस्तस्माद् भृगुः स्मृतः ।). [On one occasion when the sages could not agree as to which of the three gods, Brahman, Viṣṇu and Śiva, was best entitled to the worship of Brāhmaṇas, the sage Bhṛigu was sent to test the character of the three gods. He first went to the abode of Brahman, and, on approaching him, purposely omitted an obeisance. Upon this the god reprehended him severely, but was pacified by apologies. Next he entered the abode of Śiva in Kailāsa, and omitted, as before, all tokens of adoration. The vindictive deity was enraged and would have destroyed him, had he not conciliated him by mild words. (According to another account, Bhṛigu was coldly received by Brahman, and he, therefore, cursed him that he would receive no worship or adoration; and condemned Śiva to take the form of a Liṅga, as he got no access to the deity who was engaged in private with his wife). Lastly he went to Viṣṇu, and finding him asleep, he boldly gave the god a kick on his breast which at once awoke him. Instead of showing anger, however, the God arose, and on seeing Bhṛigu, inquired tenderly whether his foot was hurt, and then began to rub it gently. 'This', said Bhṛigu, 'is the mightiest god. He overtops all by the most potent of all weaponskindness and generosity'. Viṣṇu was therefore, declared to be the god who was best entitled to the worship of all.]
N. of the sage Jamadagni.
An epithet of Śukra.
The planet Venus.
A cliff, precipice; कृत्वा पुंवत्पातमुच्चैर्मृगुभ्यः Śi.4.23; भृगुपतनकारणमपृच्छम् Dk.
Table-land, the level summit of a mountain.
N. of Kṛiṣṇa.
An epithet of Śiva.
Friday. -Comp. -उद्वहः an epithet of Paraśurāma. -कच्छः, -च्छम् N. of a place on the north bank of the Narmadā (modern Broach).
जः, तनयः an epithet of Śukra.
the planet Venus.
नन्दनः an epithet of Paraśurāma; वीरो न यस्य भगवान् भृगुनन्दनो$पि U.5.34.
of Śukra.
of Śaunaka; एवं निशम्य भृगुनन्दनसाधुवादम् Bhāg.1.1. 14. -पतनम् a fall from a precipice. -पतिः an epithet of Paraśurāma; भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् Me.59; so भृगूणांपतिः. -पातः Throwing oneself down from a cliff or a precipice; thus committing suicide; तत्र तत्यजुरा मानं भृगुपातेन केचन Śiva B.2.39. -वंशः N. of a family descended from Paraśurāma;. -वारः, -वासरः Friday.-शार्दूलः, -श्रेष्ठः, -सत्तमः epithets of Paraśurāma;.
सुतः, सूनुः an epithet of Paraśurāma;.
of Venus or Śukra; भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ Mb.9.11.17.
