सामग्री पर जाएँ

भृङ्गराजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भृङ्गराजः, पुं, (भृङ्गैव राजते इति । भृङ्ग + राज् + अच् । द्रव्यद्वारेण भृङ्गवत् केशकृर्ष्णीकरणा- त्तथात्वम् ।) क्षुपविशेषः । केसुरिया इति वङ्ग- भाषा । भेगरिया इति हिन्दीभाषा । तत्- पर्य्यायः । केशराजः २ भृङ्गः ३ पत्तङ्गः ४ मार्करः ५ । इति रत्नमाला ॥ भृङ्गाह्वः ६ केश- रञ्जनः ७ पितृप्रियः ८ अङ्गारकः ९ केश्यः १० कुन्तलवर्द्धनः ११ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा- मशोफश्वित्रनाशित्वम् । तत्र नीलो रसायनः । इति राजनिर्घण्टः ॥ अपि च । “भृङ्गराजो भङ्गरजः मार्करो भृङ्ग एव च । भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥ भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥ दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्ति- जित् ॥” इति भावप्रकाशः ॥ पक्षिविशेषः । (यथा, महाभारते । ३ । १०८ । ७ । शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥”) भ्रमरः । इति मेदिनी । जे, ३४ ॥ यज्ञभेदः । इति धरणिः ॥

"https://sa.wiktionary.org/w/index.php?title=भृङ्गराजः&oldid=154902" इत्यस्माद् प्रतिप्राप्तम्