भृङ्गारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गारः, पुं, (भृ + आरन् नुम् गुक् च । अथवा “भृङ्गं जलमियर्त्त्यनेनेति ।” भृङ्गं + ऋ + करणे घञ् । इत्यमरटीकायां रघुनाथः ॥ स्वर्णघटित- वारिपात्रम् । (यथा मार्कण्डेयपुराणे । ८ । २०३ । “नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ॥”) तत्पर्य्यायः । कनकालुका २ इत्यमरः ॥ गुडुकः ३ गडुकः ४ । इति शब्दरत्नावली ॥ भृङ्ग- राजः । इति जटाधरः ॥ अथ भृङ्गारोद्देशः । “राज्ञोऽभिषेकपात्रं यद्भृङ्गार इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च । चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम् ॥ भानुदिङ्नवसप्ताष्टरुद्रलोकसुरोन्मिताः । अष्टावष्टौ समाख्याता आयामपरिणाहयोः ॥ द्विचतुर्बाणवेदाब्धिबाणसप्तात्मवृत्तिता । यथाक्रमं समुद्दिष्टमादित्यादिदशा भुवाम् ॥ पद्मरागस्तथा वज्रं वैदूर्य्यमौक्तिकन्तथा । नीलं मारकतञ्चैव मुक्ता च सप्त कीर्त्तिताः ॥ भृङ्गारसप्तके न्यास्या न भौमो मणिमहति । कानकं मृण्मयं वापि सर्व्वेषामुपयुज्यते ॥ कानकन्तु क्षितीशानां मृण्मयं सार्व्वयोगिकम् । शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥ चतुर्व्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां स्यान्महीभुजाम् ॥ मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता । एषां पुष्पाणि केशेषु चतुर्जातिमहीभुजाम् ॥ हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि ॥ इत्थं निश्चित्य यः कुर्य्यान् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥” इति युक्तिकल्पतरौ भृङ्गारोद्देशः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गारः [bhṛṅgārḥ] रम् [ram], रम् 1 A golden vase or pitcher; प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् Mb.13.52.14.
A pitcher of a particular shape (Mar. झारी); also भृङ्गारुः; काञ्चनैश्चैव भृङ्गारैर्जुह्रुः सलिलमग्रतः Rām.5.18.12; शिशिरसुरभिसलिलपूर्णो$यं भृङ्गारः Ve.6.
A vase used at the coronation of a king; गुणेषु न तु मे द्वेषो भृङ्गारः प्रतिगृह्यताम् Pratijñā Y.4.21; स्थालानां चषकाणां च भृङ्गाराणां च भूरिशः Śiva B.29.58; तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकोपग्राहिणस्तीक्ष्णा विद्यः Kau. A.1. 12.
रम् Gold.
Cloves.
