भृङ्गिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गी, [न्] पुं, (भृङ्गः भृङ्गवद्वर्णोऽस्यास्तीति । इनिः ।) वटवृक्षः । इति राजनिर्घण्टः ॥ शिव- द्वारपालविशेषः । तत्पर्य्यायः । भृङ्गेरिटिः २ भृङ्गरीटः ३ शलः ४ नाडीदेहः ५ अस्थिविग्रहः ६ । इति त्रिकाण्डशेषः ॥ भृङ्गरिटिः ७ । इति भूरिप्रयोगः ॥ तस्य जन्मकारणं यथा, -- ईश्वर उवाच । “रतिमात्रेण नोमायां मत्पुत्त्रः संभविष्यति । महामैथुनसंत्यागात् स्यादपुत्त्री च पार्व्वती ॥ तस्मादहन्तु देवानां वचनाद्ब्रह्मणस्तथा । त्यक्ष्ये महामैथुनन्तु किन्त्वेकं करुतामराः ! ॥ येन मे सुमहत्तेजो महामैथुनकारणम् । धार्य्यं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥ यो निष्कम्पो निर्व्विकारो भूत्वा तेजो ग्रही- ष्यति । तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥” श्रीऔर्व्व उवाच । “वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः । हरतेजोग्रहायाथ वीतिहोत्रं ययुर्ह्रिया ॥ अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् । सेन्द्रा देवगणाः सर्व्वे हरमूचुरिदं वचः ॥” श्रीदेवा ऊचुः । “एष वैश्वानरः श्रीमान् भूरितेजोमयो बली । महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥ इत्युक्त्वा त्रिदशाः सर्व्वे बीतिहोत्रं पुरःस्थितम् । तस्मै निदेशयामासुः शम्भवे सर्व्वहेतवे ॥ ततः षडङ्गं स्वं रेतो व्यादिते दहनानने । उसत्सर्ज महाबाहुर्महामैथुनकारणम् ॥ अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः । अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ तयोः कारणयोः सद्यः सम्भूतौ शङ्करात्मजौ । एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥ भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरीत् । अन्धक उवाच । अम्बिका जननी मह्यं भगबांस्त्र्यम्बकः पिता । बन्दामि चरणौ मातुर्बन्दनीया ममाम्बिका ॥ वरदोऽसि यदीशान ! तद्यातु विलयं मम । शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम् ॥ तथा मे दानवो भावो ह्यपयातु महेश्वर ! । स्थिरा स्यात्तव भक्तिस्तु वरमेतं प्रयच्छ मे ॥ महेश्वर उवाच । एवं भवतु दैत्येन्द्र ! पापं ते यातु संक्षयम् । मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव ॥ इत्येवमुक्त्वा वरदः शूलाग्रादवतार्य्य तम् । निर्म्माज्य निजहस्तेन चक्रे निर्व्रणमन्धकम् ॥ ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः । ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम् ॥ गणान् स नन्दी चाहूय सन्निवेश्य तदग्रतः । भृङ्गिणं दर्शयामास ब्रुवन्नेषोऽन्धकेति हि ॥ ते दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् । गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम् ॥” इति वामनपुराणे । ४४ । ४५ । ६७ अध्यायेभ्यः सङ्कलितम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गिन् पुं।
नन्दिः
समानार्थक:शृङ्गिन्,भृङ्गिन्,रिटि,तुण्डिन्,नन्दिक,नन्दिकेश्वर
1।1।40।3।2
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः। षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः। शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः। कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥
स्वामी : शिवः
सम्बन्धि1 : शिवः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गिन्¦ पु॰ भृङ्गस्तद्वर्णः कृष्णत्वादस्त्यस्य इनि।
१ वटवृक्षेराजनि॰
२ शिवानुचरभेदे। तस्य शिवतेजो जातत्वेऽपिकृष्णत्वात् तद्धामता यथोक्तं कालिकापु॰
४५ अ॰ यथा
“अग्नावुत्सृज्यमानस्य तजसः शशभृद्भृतः। अणुद्वत-मतिस्वल्पं गिरिप्रस्थे पपात ह। तयोः कारणयोःबद्यः सम्भूतौ शङ्करात्मजौ। एको भृङ्गलमः कृष्णोभिन्नाञ्जननिभोऽपरः। भृङ्गी तस्य तदा ब्रह्मा नामभृङ्गीति चाकरोत्। महाकृष्णैकरूपस्य महाकालेतिलोकभृक्”। वामनपु॰ तु अन्धकासुरस्यैव शिववरेण भृङ्गि-रूपत्व गणाधिपत्यञ्च जातमित्युक्तम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गिन्¦ m. (-ङ्गी)
1. One of S4IVA'S chamberlains.
2. The Indian fig-tree. E. भृङ्ग a bee, इनि aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गिन् [bhṛṅgin], m.
The fig-tree.
N. of an attendant of Śiva; तयोः कारणयोः सद्यः संभूतौ शंकरात्मजौ । एको भृङ्गसमः कृष्णो भिन्नाञ्जनसमो$परः । भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ॥ Vamana. P.; also भृङ्गिः -Comp. -ईशः N. of Śiva.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गिन् m. the Indian fig-tree L.
भृङ्गिन् m. N. of one of शिव's attendants(See. भृङ्गरिटि, गिरिटetc. ) Katha1s.
भृङ्गिन् m. pl. N. of a people Var.