सामग्री पर जाएँ

भृङ्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भृङ्गी, स्त्री, (भृ + गक् + नुट् + गौरादित्वात् ङीष् ।) अतिविषा । इति राजनिर्घण्टः ॥

भृङ्गी, [न्] पुं, (भृङ्गः भृङ्गवद्वर्णोऽस्यास्तीति । इनिः ।) वटवृक्षः । इति राजनिर्घण्टः ॥ शिव- द्वारपालविशेषः । तत्पर्य्यायः । भृङ्गेरिटिः २ भृङ्गरीटः ३ शलः ४ नाडीदेहः ५ अस्थिविग्रहः ६ । इति त्रिकाण्डशेषः ॥ भृङ्गरिटिः ७ । इति भूरिप्रयोगः ॥ तस्य जन्मकारणं यथा, -- ईश्वर उवाच । “रतिमात्रेण नोमायां मत्पुत्त्रः संभविष्यति । महामैथुनसंत्यागात् स्यादपुत्त्री च पार्व्वती ॥ तस्मादहन्तु देवानां वचनाद्ब्रह्मणस्तथा । त्यक्ष्ये महामैथुनन्तु किन्त्वेकं करुतामराः ! ॥ येन मे सुमहत्तेजो महामैथुनकारणम् । धार्य्यं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥ यो निष्कम्पो निर्व्विकारो भूत्वा तेजो ग्रही- ष्यति । तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥” श्रीऔर्व्व उवाच । “वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः । हरतेजोग्रहायाथ वीतिहोत्रं ययुर्ह्रिया ॥ अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् । सेन्द्रा देवगणाः सर्व्वे हरमूचुरिदं वचः ॥” श्रीदेवा ऊचुः । “एष वैश्वानरः श्रीमान् भूरितेजोमयो बली । महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥ इत्युक्त्वा त्रिदशाः सर्व्वे बीतिहोत्रं पुरःस्थितम् । तस्मै निदेशयामासुः शम्भवे सर्व्वहेतवे ॥ ततः षडङ्गं स्वं रेतो व्यादिते दहनानने । उसत्सर्ज महाबाहुर्महामैथुनकारणम् ॥ अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः । अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ तयोः कारणयोः सद्यः सम्भूतौ शङ्करात्मजौ । एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥ भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरीत् । अन्धक उवाच । अम्बिका जननी मह्यं भगबांस्त्र्यम्बकः पिता । बन्दामि चरणौ मातुर्बन्दनीया ममाम्बिका ॥ वरदोऽसि यदीशान ! तद्यातु विलयं मम । शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम् ॥ तथा मे दानवो भावो ह्यपयातु महेश्वर ! । स्थिरा स्यात्तव भक्तिस्तु वरमेतं प्रयच्छ मे ॥ महेश्वर उवाच । एवं भवतु दैत्येन्द्र ! पापं ते यातु संक्षयम् । मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव ॥ इत्येवमुक्त्वा वरदः शूलाग्रादवतार्य्य तम् । निर्म्माज्य निजहस्तेन चक्रे निर्व्रणमन्धकम् ॥ ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः । ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम् ॥ गणान् स नन्दी चाहूय सन्निवेश्य तदग्रतः । भृङ्गिणं दर्शयामास ब्रुवन्नेषोऽन्धकेति हि ॥ ते दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् । गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम् ॥” इति वामनपुराणे । ४४ । ४५ । ६७ अध्यायेभ्यः सङ्कलितम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भृङ्गी¦ स्त्री भृ--गन् कित् नुट् च गौरा॰ ङीष्। अति-विषायाम् राजनि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भृङ्गी f. (See. g. गौरा-दि) id. Ka1v. Katha1s.

भृङ्गी f. Aconitum Ferox L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

BHṚṄGĪ : A Maharṣi who was a devotee of Śiva. Once he went to Kailāsa and began to go round Śiva to pay homage to him. But since Pārvatī and Śiva were sitting together as one body, he could not go round Śiva sepa- rately. He did not have much reverence for Pārvatī. So he took the form of a female beetle (Bhṛṅgī) and bored his way through a hole made in the place where their bodies were united and thus went round Śiva alone. Pārvatī was angry at this slight shown to her and cursed him to become physically weak. His legs became so weak that they were unable to support his body. So he prayed to Śiva again and he blessed him with a third leg. In this way Bhṛṅgī became a Maharṣi with three legs. (Maharṣis).


_______________________________
*3rd word in right half of page 141 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भृङ्गी&oldid=434392" इत्यस्माद् प्रतिप्राप्तम्