भृतकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृतकः, पुं, (भ्रियते इति । भृ + कर्म्मणि क्तः । ततः स्वार्थे कन् । यद्वा, भृतेन वेतनेन उपजीव- तीति कन् ।) वेतनोपजीविकर्म्मकर्त्ता । तत्- पर्य्यायः । भृतिभुक् २ कर्म्मकरः ३ वैतनिकः ४ । इत्यमरः । २ । १० । १५ ॥ (यथा, मनौ । ३ । १५६ । “भृतकाध्यापको यश्च भृताध्यापितस्तथा ॥”)
