भृत्यः
संस्कृतम्
[सम्पाद्यताम्]नाम
[सम्पाद्यताम्]लिङ्ग्म्-
[सम्पाद्यताम्]| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा विभक्तिः | अजा | अजे | अजाः |
| सम्बोधनप्रथमा | अजे | अजे | अजाः |
| द्वितीया विभक्तिः | अजाम् | अजे | अजाः |
| तृतीया विभक्तिः | अजया | अजाभ्याम् | अजाभिः |
| चतुर्थी विभक्तिः | अजायै | अजाभ्याम् | अजाभ्यः |
| पञ्चमी विभक्तिः | अजायाः | अजाभ्याम् | अजाभ्यः |
| षष्ठी विभक्तिः | अजायाः | अजयोः | अजानाम् |
| सप्तमी विभक्तिः | अजायाम् | अजयोः | अजासु |
अनुवादाः
[सम्पाद्यताम्]उदाहरणानि
[सम्पाद्यताम्]कोशप्रामाण्यम्
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृत्यः, पुं, (भ्रियते इति । भृ + “भृञोऽसंज्ञा- याम् ।” ३ । १ । ११२ । इति क्यप् । “ह्नस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगा- गमश्च ।) दासः । इत्यमरः । २ । १० । १७ ॥ (तथास्य पर्य्यायान्तरम् । “परिकर्म्मा परिचरः सहायः परिचारकः । प्रेष्यो भत्य उपस्थाता सेवकोऽभिषवोऽनुगः ॥” इति वैद्यकरत्नमालायाम् ॥) तस्य लक्षणं यथा, -- सूत उवाच । “भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ भृत्यपरीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः । तमिमं संप्रवक्ष्यामि यद्यदा कथितानि च ॥ यथा चतुर्भिः कनकं परीक्ष्यते तुलाघर्षणच्छेदनतापनेन । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्म्मणा ॥” कुलशीलगुणोपेतः सत्यधर्म्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरीक्षकः । बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्व्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ बुद्धिमान् मतिमांश्चैव परचित्तोपलक्षकः । क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्य्यवीर्य्यगुणोपेतो धर्म्माध्यक्षो विधीयते ॥ पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः । शौचयुक्तः सदाचारी सूपकारः स उच्यते ॥ आयुर्व्वेदकृताभ्यासः सर्व्वज्ञः प्रियदर्शनः । आर्य्यशीलगुणोपेतो वैद्य एष विधीयते ॥ वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादपरो नित्यमेष राजपुरोहितः ॥ इति गारुडे ११२ अध्यायः ॥
