भृत्यः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत्यः, पुं, (भ्रियते इति । भृ + “भृञोऽसंज्ञा- याम् ।” ३ । १ । ११२ । इति क्यप् । “ह्नस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगा- गमश्च ।) दासः । इत्यमरः । २ । १० । १७ ॥ (तथास्य पर्य्यायान्तरम् । “परिकर्म्मा परिचरः सहायः परिचारकः । प्रेष्यो भत्य उपस्थाता सेवकोऽभिषवोऽनुगः ॥” इति वैद्यकरत्नमालायाम् ॥) तस्य लक्षणं यथा, -- सूत उवाच । “भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ भृत्यपरीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः । तमिमं संप्रवक्ष्यामि यद्यदा कथितानि च ॥ यथा चतुर्भिः कनकं परीक्ष्यते तुलाघर्षणच्छेदनतापनेन । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्म्मणा ॥” कुलशीलगुणोपेतः सत्यधर्म्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरीक्षकः । बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्व्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ बुद्धिमान् मतिमांश्चैव परचित्तोपलक्षकः । क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्य्यवीर्य्यगुणोपेतो धर्म्माध्यक्षो विधीयते ॥ पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः । शौचयुक्तः सदाचारी सूपकारः स उच्यते ॥ आयुर्व्वेदकृताभ्यासः सर्व्वज्ञः प्रियदर्शनः । आर्य्यशीलगुणोपेतो वैद्य एष विधीयते ॥ वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादपरो नित्यमेष राजपुरोहितः ॥ इति गारुडे ११२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=भृत्यः&oldid=506875" इत्यस्माद् प्रतिप्राप्तम्