भृमिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृमिः, पुं, (भ्रमति भ्राम्यति वेति । भ्रम् + “भ्रमेः संप्रसारणञ्च ।” उणा० ४ । १२० । इति इन् कित् सम्प्रसारणञ्च ।) वायुविशेषः । घूरणा वातास इति भाषा । जलादिभ्रमणम् । इत्युणादि- कोषः ॥ (त्रि, कर्म्मनिर्व्वाहकः । यथा, ऋग्- वेदे । १ । ३१ । १६ । “आपिः पिता प्रमतिः सोम्यानां मृमिरस्यृषिकृन्मर्त्त्यानाम् ॥” “भृमिर्भ्रामकः कर्म्मनिर्व्वाहक इत्यर्थः ।” इति तद्भाष्ये सायनः ॥ भ्रमणशीलः । यथा, ऋग्- वेदे । ३ । ६२ । १ । “इमा उवां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ॥” “भृमयः भ्रमणशीलाः ॥” इति तद्भाष्ये सायनः ॥ वीणाविशेषे स्त्री । यथा, ऋग्वेदे । २ । ३४ । १ । “अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अपगा अवृण्वत ॥” “यद्वा, भृम्याख्यो वीणाविशेषस्तं धमन्तो वाद- यन्तः ॥” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृमिः [bhṛmiḥ], 1 An eddy, a whirlpool.
Whirlwind; भृमिं धमन्तो अप गा अवृण्वत Ṛv.2.34.1. -f. Ved. Quickness; इमा उ वां भृमयो मन्यमानां Ṛv.3.62.1.
