सामग्री पर जाएँ

भेकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेकः, पुं, (बिभेति इति । भी + “इण्भीका- पाशल्यतीति ।” उणा० । ३ । ४३ । इति कन् । जन्तुविशेषः । व्याङ् इति भाषा । तत्- पर्य्यायः । मण्डूकः २ वर्षाभूः ३ शालूरः ४ प्लवः ५ दर्दुरः ६ । इत्यमरः । १ । १० । २४ ॥ वृष्टिभूः ७ सालूरः ८ । इति तट्टीका ॥ प्लवङ्गमः ९ व्यङ्गः १० प्लवगः ११ शल्लः १२ नन्दनः १३ गूढवर्च्चाः १४ अजिह्वः १५ जिह्ममोहनः १६ । इति शब्दरत्नावली ॥ नन्दकः १७ कृता- लयः १८ रेकः १९ । इति त्रिकाण्डशेषः ॥ मण्डः २० हरिः २१ लुलुकः २२ । क्वचित् पुस्तके लूलकोऽपि पाठः । शालूकः २३ कटुरवः २४ । अस्य मांसगुणाः । सद्योबलकरत्वम् । श्रम- तृड्दाहप्रमेहक्षयकुष्ठच्छर्द्दिनाशित्वञ्च । इति राजनिर्घण्टः ॥ मेघः । इति मेदिनी । के, ३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४५१ । “संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेकः [bhēkḥ], [भी कन् कस्य नेत्वम्; Uṇ.3.43]

A frog; पङ्के निमग्ने करिणि भेको भवति मूर्धगः.

A timid man.

A cloud; तेजः सद्यो बलकरो भ्रमतृड् दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्तितः ॥ Rājanighaṇṭu.

की A small frog.

A female frog. -Comp. -भुज् m. a serpent. -रवः, -शब्दः the croaking of frogs.

"https://sa.wiktionary.org/w/index.php?title=भेकः&oldid=307335" इत्यस्माद् प्रतिप्राप्तम्