सामग्री पर जाएँ

भेदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेदः, पुं, (भिद् + घञ् ।) शत्रुवशीकरणोपाय- चतुष्टयान्तर्गततृतीयोपायः । तत्पर्य्यायः । उपजापः २ । इत्यमरः । २ । ८ । २१ ॥ परतो विश्लेष्य आत्मसात् करणंभेदः । इति भरतः ॥ तद्विशेषो यथा, -- मत्स्य उवाच । “परस्परन्तु ये दुष्ठाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मान्नापि बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । एवं हि दर्शयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधु मन्येत भेदं परमुखाच्छ्रुतम् ॥ भेद्याः स्वकार्य्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्द्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपो बहिःकोपो यत्र स्यातां मही- क्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ! ॥ अमात्यमन्त्रिणाञ्चैव राजपुत्त्रात्तथैव च । अन्तःकोपो विनिर्द्दिष्टो दारुणः पृथिवीक्षिताम् ॥ वाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग ! शीघ्रमेव जयी भबेत् ॥ अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपःप्रयत्नेन तस्माद्रक्षेन्महीक्षिता ॥ परतः कोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्य्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः । ज्ञातयः परितप्यन्ते सततं परितप्य यम् ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिरनुगृह्णाति न ज्ञातिर्दग्धुमिच्छति । ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ॥ भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ । सुसंहतानां हि ततस्तु भेदः कार्य्यो रिपूणां नयशास्त्रविद्भिः ॥” इति मात्स्ये राजधर्म्मे २२२ अध्यायः ॥ * ॥ द्वैधः । विशेषः । विदारणम् । इति मेदिनी । ने, १२ ॥ (तथा च कामन्दकीये । १५ । १६ । “पुरश्च पश्चाच्च यदा समर्थ- स्तदाभियायान्महते फलाय । पुनः प्रसर्पन्नविशुद्धपृष्ठः प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥”) विरेकः । यथा, हास्यार्णवनाटके । “काशे धूमस्तुषाणां बलवति मरुते स्वेदभेदोपवासा वह्नेर्म्मान्द्ये च पिष्टं सपिशितमनिशं वारिपानं कफर्त्तौ ॥”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेदः [bhēdḥ], [भिद् घञ्]

Breaking; splitting, cleaving; hitting (as a mark).

Rending, tearing.

Dividing, separating.

Piercing through, perforation.

(a) Breach, rupture. (b) Breaking open, bursting; V.2.7.

Disturbance, interruption.

Division, separation.

A chasm, gap, fissure, cleft.

A hurt, injury, wound.

Difference, distinction; तयोर्न भेदप्रतिपत्तिरस्ति मे Bh.3. 99; अगौरवभेदेन Ku.6.12; Bg.18.19,22. रस˚, काल˚ &c.; भेदाभेदयोर्भेदो ग्रहीतव्यः ŚB. on MS.1.6.3.

A change, modification; न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् Bg.3.26.

Dissension, disunion.

Disclosure, betrayal; as in रहस्यभेदः.

Treachery, treason; भेदाधीनं कृतं शत्रोः सैन्यं शत्रुबलं स्मृतम् Śukra.4.876.

A kind, variety; भेदाः पद्मशङ्खादयो निधेः Ak.; शिरीषपुष्पभेदः &c.

Dualism.

(In politics) Sowing dissensions in an enemy's party and thus winning him over to one's side, one of the four Upāyas or means of success against an enemy; see उपाय and उपायचतुष्टय; परम्परं तु ये द्विष्टाः क्रुद्धभीतावमानिताः । तेषां भेदं प्रयुञ्जीत परमं दर्शयेद् भयम् ॥ Agni P.

Defeat.

(In medicine) Evacuation of the bowels.

Shooting pain (in the limbs).

Paralysis.

Contraction.

A conjunction of the planets.

The hypotenuse of a right-angled triangle. -Comp. -अभेदौ (dual)

disunion and union, disagreement and agreement.

difference and sameness; भेदाभेद- ज्ञानम्. -उन्मुख a. on the point of bursting forth or opening; बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति V.2.7. -कर, -कृत् sowing dissensions. -दर्शिन्, -दृष्टि, -बुद्धि a. considering the universe as distinct from the Supreme Spirit. -प्रत्ययः belief in dualism. -वादिन् m. one who maintains the doctrine of dualism. -विधिः the faculty of discriminating. -सह a.

capable of being divided or separated.

corruptible, seducible.

"https://sa.wiktionary.org/w/index.php?title=भेदः&oldid=307505" इत्यस्माद् प्रतिप्राप्तम्