सामग्री पर जाएँ

भेदकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेदकः, त्रि, (भिद् + ण्वुल् ।) विदारकः । यथा, मनौ । ९ । २८५ ।) (“संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः । प्रतिकुर्य्याच्च तत् सर्व्वं पञ्च दद्याच्छतानि च ॥” विरेचकौषधादिः । (विरेचकौधार्थे विषयो यथा, “नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः । ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥) पृथक्कारकः । यथा । “भेदयति अन्यपदार्थं पृथक् करोतीति भेदकं नाम्ना शिवः गोत्रेण गार्ग्यः ।” इति कारकटीकायां दुर्गादासः ॥ अपि च । “भेद्यभेदकयोः श्लिष्टं सम्बन्धोऽन्योन्यमिष्यते । द्बिष्ठो यद्यपि सम्बन्धः षष्ठ्यत्पत्तिस्तु भेदकात् ॥” इति कलापटीकाधृतभर्त्तृहरिकारिका ॥ (“सामान्यस्य भेदको विशेषः प्रकारः ।” इति च ५ । ३ । ६९ । इत्यस्य । काशिकावृत्तिः ॥)

"https://sa.wiktionary.org/w/index.php?title=भेदकः&oldid=154988" इत्यस्माद् प्रतिप्राप्तम्