भेदनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भेदनम्, क्ली, (भिद्यतेऽनेनेति भिद् + ल्युट् ।) हिङ्गु । इति राजनिर्घण्टः ॥ विदारणम् । इति भिदधातोर्भावेऽनट् प्रत्ययेन निष्पन्नम् ॥ (भेदकारके, त्रि ॥ यथा, भागवते । ३ । २६ । २ । “यदाहुर्वर्णये तत् ते हृदयग्रन्थिभेदनम् । “अहङ्कारनिवर्त्तकमिति स्वामिव्याख्यानम् ॥” विरेचनकारके च । यथा च सुश्रुते । १ । १८८ । १४ ॥ सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम् । भेदनं कफवातघ्नं हृद्यं वस्तिविशोधनम् ॥”)
