सामग्री पर जाएँ

भेषजम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भेषजम्, क्ली, (भिषजोवैद्यस्येदमित्यण् निपा- तनादेत्वम् । यद्वा, भेषं रोगं जयतीति । जि + डः । औषधम् । इत्यमरः । २ । ६ । ५० ॥ (“अस्ति भेषजोजलाषः ।” इति ऋक्संहिता । २ । ३३ । ७ ।) अथ भेषजभक्षणसमयाः । “भैषज्यमभ्यवहरेत् प्रभाते प्रायशो बुधः । कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥ ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् । किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने । सायन्तने भोजने च मुहुश्चापि तथा निशि ॥” वासस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपा- श्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः । एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूत- मद्रव्यभूतञ्च, तत्र यद्द्रव्यभूतं तदुपायाभि- प्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षो- भणहर्षणभर्त्सन वधबन्धस्वप्नसंवाहनादिरमूर्त्तो भावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्य- भूतं तद्वमनादिषु योगमुपैति । तस्यापीयं परीक्षा, इदमेवं प्रकृत्या एवंगुणमेवंप्रभाव- मस्मिन् देशे जातमस्मिन् ऋतौ एवं गृहीतमेवं निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन् ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्ष- यति उपशमयति वा अन्यदपि चैवंविधं भेषजमभूत्तच्चानेनानेन वा विशेषेण युक्तमिति । इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=भेषजम्&oldid=155013" इत्यस्माद् प्रतिप्राप्तम्