सामग्री पर जाएँ

भैरवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भैरवः, पुं, (भीर्भयङ्करो रवो यस्य । इति भीरव । ततः स्वार्थे अण् ।) शङ्करः । इति मेदिनी । वे ४६ ॥ भयानकरसः । इत्यमरटीकायां भरतः ॥ नदविशेषः । इति शब्दरत्नाबली ॥ रागभेदः । इति हेमचन्द्रः ॥ * ॥ अष्टभैरवाणामुत्पत्तिर्यथा, “दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् । संस्थितस्तु महायोगी सर्व्वाधारः प्रजापतिः ॥ गदापातक्षताद्भूरि चतुर्धासृगथापतत् । पूर्ब्बधारासमुद्भूतो भैरवोऽग्निसमप्रभः ॥ विद्याराजेति विख्यातः पद्ममालाविभूषितः । तथा दक्षिणधारोत्थो भैरवः प्रेतमास्थितः ॥ कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः । नागराजेति विख्यातश्चक्रमालाघिभूषितः ॥ क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः । सच्छन्दराजेति विख्यात इन्द्रायुधसमप्रभः ॥ भूयिष्ठाद्रुधिराज्जातो भैरवः फलभूषितः । ख्यातो लम्बितराजेति शोभाञ्जनसमप्रभः ॥ ततोऽभूद्देवराजेति भैरवः क्षतजादथ । उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः ॥ एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने ! । विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ॥” इति वामनपुराणे अन्धकवरप्रदाने भैरवप्रादु- र्भावे ६७ अध्यायः ॥ * ॥ शारदीयदुर्गापूजायां अष्टौ पूज्यभैरवा यथा, “आदौ महाभैरवञ्च संहारभैरवं तथा । असिताङ्गभैरवञ्च रुरुं भैरवमेव च ॥ ततः कालं भैरवञ्च क्रोधभैरवमेव च । ताम्रचूडं चन्द्रचूडं अन्ते च भैरवद्वयम् ॥ एतान् संपूज्य मध्ये च नवशक्तीश्च पूजयेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे दुर्गोपाख्याने ६१ अध्यायः ॥ ताम्रचूडचन्द्रचूडयोः स्थाने कपालभैरवरुद्र- भैरवौ ज्ञेयौ । इति तत्रैव गणपतिखण्डे ४१ अध्यायः ॥ * ॥ अपि च । “असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः । कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥” इति तन्त्रसारः ॥ * ॥ शिवगणाधिपभैरवो यथा, -- “नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा । अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः ॥ यैर्मानुषशरीरेण प्रापिरे तपसो बलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥” इति कालिकापुराणे ४४ अध्यायः ॥ * ॥ करवीरपुरराजचन्द्रशेखरपत्नीतारावतीगर्भे महादेवाज्जातपुत्त्रः । स च पुरा भृङ्गी बभूव पार्व्वतीशापात् वानरमुखो भूत्वा भैरव इति नाम्ना ख्यातः । यथा, -- “प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥ कल्लिनाथमते तु भैरवश्चतुर्थरागः । अस्य रागिण्यः षट् । यथा । भैरवी गुज्जरी भाषा वेलावली कर्णाटी रगतंसा वडहंसीति च केचित् । एतन्मते पूर्ब्बवत् अष्टौ पुत्त्राः । किन्तु तिलकपुरीयपञ्चमसूहस्थानेषु देवशाखललित- मालकौशविलाबला लिखिताः । सोमेश्वर- मतेऽपि रागिण्यः षट् । यथा । भैरवी गुज्जरी रेवा गुणकली वङ्गाली बहुली च । तन्मते रागिण्या सहास्य गानसमयो ग्रीष्मर्त्तुः ॥ भरतमते तु अस्य रागिण्यः पञ्च यथा । मधु- माधवी ललिता वरारी वाहाकली भैरवी च । तन्मतेऽपि अस्याष्टौ पुत्त्राः । यथा देवशाखः ललितः हर्षः विलावलः माधवः वङ्गालः वेभासः पञ्चमश्च । एषामष्टौ भार्य्या यथा । सूहा वेलावली सोरठी कुम्भारी अन्दाही बहुलगुज्जरी पटमञ्जरी मिरवी च । इति सङ्गीत- शास्त्रम् ॥ * ॥ मतान्तरे भैरवरागस्य भार्य्या यथा । भैरवी वङ्गाली वरारी मध्यमा मधु- माधवी सिन्धवी च । तत्पुत्त्रा यथा । कोशकः अजयपालः श्यामः खरतापः शुद्धः ढोलश्च । तत्पुत्त्रबध्वो यथा । अष्टी रेवा बहुला सोहिनी रम्भेली सूहा च । अत्र शोभा इति साधुः पाठः । इति नारदपुराणम् ॥ (नागभेदः । यथा, महाभारते । १ । ५७ । १६ । “भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भैरवः&oldid=155024" इत्यस्माद् प्रतिप्राप्तम्