सामग्री पर जाएँ

भोक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोक्ता [ऋ] त्रि, (भुज् + कर्त्तरि तृच् ।) भोजनकर्त्ता । यथा, -- “यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।” इति श्राद्धप्रयोगतत्त्वम् ॥ सुखादिभोगकर्त्ता यथा, -- “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवेवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ अथ भोक्तुर्लक्षणं यथा, पाकराजेश्वरे । “स्नातः सुधौतमृदुसुन्दरशुक्तवासा- स्तत्कालधौतचरणः सह पुत्त्रमित्रैः । स्रग्वी प्रसन्नहृदयो रसपाकवेद्यां भोक्ता विशेच्च सततं हि सहात्मवैद्यैः ॥ मृदुतूलमये स्थूले चारुवस्त्रावगुण्ठिते । आसने प्राङ्मुखो भोक्तोपविशेद्बाप्युदङ्मुखः ॥” (भोजनकर्त्रर्थे यथा, -- “यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा । अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ “भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ । सुगन्धिपुष्परचिते रम्ये देशेऽथ भोजयेत् ॥” इति च तत्रैव तदध्याये ॥ यथा च सांख्यशास्त्रे भोक्ता भोगकर्त्ता पुरुषः । सति भोगज्ञाने भोक्तृज्ञानं भवतीति तल्लक्षण- माह । “चिदवसानो भोगः ।” इति सांख्यसूत्रम् । १ । १०४ ॥ पुरुषस्वरूपे चैतन्ये पर्य्यवसानं यस्यैतादृशो भोगः सिद्धिरित्यर्थः । राज्ञो भृत्यवर्गः यथा, स्वामिने भोग्यजातमर्पयति, तथा, इन्द्रियाणि विषयजातं स्वस्वशक्त्या गृहीत्वा अन्तःकरण- प्रतिविम्बिताय पुरुषाय अर्पयति, स च पुरुषः प्रतिविम्बग्रहणमात्रेण विषयजातं भुङ्क्ते प्रकाशयतीत्यर्थः । पुरुषस्य भोगः प्रतिविम्बा- दानमात्रं अन्येषान्तु पुष्ट्यादिः । ईदृशः परि- णामरूपो भोगः पुरुषे निषिध्यते । “बुद्धे र्भाग इवात्मनि ।” इत्यादिभिरिति । एतादृक् तया पुरुषः भोगकर्त्ता वा भोक्ता ॥” इति तद्भाष्ये विज्ञानभिक्षुः ॥

भोक्ता [ऋ] पुं, (भुङ्क्ते जीवरूपेणेति, भुनक्ति पालयतीति वा भुज + तृच् ।) विष्णुः । यथा, -- “भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ भर्त्ता । इति हेमचन्द्रः । ३ । ९१ ॥

"https://sa.wiktionary.org/w/index.php?title=भोक्ता&oldid=155034" इत्यस्माद् प्रतिप्राप्तम्