सामग्री पर जाएँ

भोगदेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोगदेहः, पुं, (भोगहेतुको भोगसाधको वा देहः ।) स्वर्गनरकभोगार्थं सूक्ष्मशरीरम् । यथा, -- “कृते सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” इति श्राद्धतत्त्वम् ॥ अपि च । “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् । देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् ॥ पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् । स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥ वृद्धाङ्गुष्टप्रमाणश्च यो जीवपुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥ स देहो न भवेद्भस्म ज्वलदग्नौ यमालये । जले न नष्टो देही वा प्रहारे सुचिरे कृते ॥ न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ॥ प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च भुङ्क्ते सन्तापमेव च । कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २९ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोगदेह¦ पु॰ भुज्यते सुखदुःखादिकमत्र भुज--आधारे घञ्कर्म॰। पुण्यपापफलभोगार्थे देहे
“प्रेतदेहं परित्यज्य[Page4705-b+ 38] भोगदेहं प्रपद्यते” शु॰ त॰।

२ भोगसाधने देहे सच लिङ्गशरीरात्मकः तस्यैव भोगसाधनत्वात्
“पञ्चप्राणमनोबुद्धिदशेन्दियसमन्वितम्। अपञ्चीकृतभूतोत्थं सू-क्ष्माङ्गं भोगसाधनम्” वेदान्तिनः। सांख्यमते पञ्चप्राणस्थलेपञ्चभूतमात्रा इति भेदः। स्थूलदेहस्य भोगावच्छेदक-त्वात् उपचारात् तथात्वमिति बोध्यम्। तद्विवृतिर्यथा
“शृणु देहविवरणं कथयामि यथागमम्। पृथिवीवायुराकाशस्तेजस्तोयमिति स्फुटम्। देहिनां देह-वीजञ्च स्रष्टुः सृष्टिविधौ परम्। पृथिव्यादिपञ्चभूतैर्योदेहो निर्म्मितो भवेत्। स कृत्रिमो नश्वरश्च भस्मसाच्चभवेदिह। वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः। विभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे। स देहो नभवेद्भस्म ज्वलदम्रौ यमालये। जले न नडो देहो वाप्रहारे सुचिरे कृते। न शस्त्रे च न चास्त्रे च नतीक्ष्णकण्टके तथा। तप्तद्रवे तप्नलोहे तप्तपाषाण एवच। प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वपतनेऽपि च। न चदग्धो न भग्नश्च मुङ्क्ते सन्तापमेव सः” ब्रह्मवै॰ प्र॰

२९ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोगदेह¦ m. (-हः) The body which a dead person carries with him.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

भोगदेह/ भोग--देह m. " the body of feeling " (the intermediate body which a dead person acquires through the श्राद्धafter cremation , and with which , according to his works , he either enjoys happiness or suffers misery See. अधिष्ठान-द्, सम्भोगकाय) RTL. 28 , 292 MWB. 247.

"https://sa.wiktionary.org/w/index.php?title=भोगदेह&oldid=308633" इत्यस्माद् प्रतिप्राप्तम्